||Sundarakanda ||

|| Sarga 24||( Only Slokas in Devanagari) )

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

हरिः ओम्

सुन्दरकाण्ड्
अथ चतुर्विंशस्सर्गः

ततस्सीतामुपागम्य राक्षस्यो विकृताननः।
परुषं परुषा नार्य ऊचुस्तां वाक्यमप्रियम् ॥1||

स॥राक्षस्यः विकृताननः ततः सीतां उपागम्य अनार्य परुषं परुष अप्रियं वाक्यं तां ऊचुः ॥

The hideous Rakshasa women then approached Sita and they spoke in unbecoming words.

किं त्वं अन्तःपुरे सीते सर्वभूतमनोहरे।
महार्हशयनोपेते न वासमनुमन्यसे॥2||
मानुषी मानुषष्यैव भार्या त्वं बहुमन्यसे।
प्रत्याहार मनो रामान् न त्वं जातु मर्हसि॥3||
त्रैलोक्य वसुभोक्तारं रावणं राक्षसेश्वरम्।
भर्तार मुपसंगम्य विहरस्व यथा सुखम्॥4||
मानुषी मानुषं तं तु रामम् इच्चसि शोभने।
राज्यात् भ्रष्टं असिद्धार्थं विक्लबं त्व मनिंदिते॥5||

स॥ सीते सर्वभूत मनोहरे त्वं अंतःपुरे महार्हशयनोपेते वासं न अनुमन्यसे किं? त्वं मानुषी मानुषस्यैव भार्या मनो भहुमन्यसे (यदि तत्) प्रत्याहार रामान् त्वं जातु न अर्हसि॥ राक्षसेश्वरं त्रैलोक्य वसुभोक्तारं रावणं भर्तारं उपसंगम्य यथा सुखं विहरस्व॥स॥शोभने अनिंदिते त्वं तु राज्यात् भ्रष्टं असिद्धार्थं मानुषं विक्लबं मानुषं तं रामं इच्छसि ॥

Oh Sita ! Pleasing to look at for all, why do you not accept to reside in the harem with well furnished beds. You being a woman who holds human form only in high esteem , then withdraw your mind from Rama. You do not deserve to live. Uniting yourself with the king of Rakshasas , who enjoys the wealth of the three worlds, live with pleasure as you please. Oh Charming lady ! Blameless one ! Do you want only Rama who is a dethroned king, an unsucceeful one and a distressed human being too.

राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा।
नेत्राभ्यां अश्रुपूर्णाभ्यां इदं वचनमब्रवीत् ॥6||

स॥ सीता पद्मनिबेक्षणा राक्षसीनां वचः श्रुत्वा अश्रुपूर्णाभ्यां नेत्राभ्यां इदं वचनं अब्रवीत् ॥

Sita with eyes like that of lotus petals, hearing those words of the Rakshasa women, spoke the following words with eyes filled with tears .

यदिदं लोकविद्विष्ट मुदाहरथ संगताः।
नैतन् मनसि वाक्यं मे किल्बिषं प्रतिभाति मे॥7||
न मानुषी राक्षसस्य भार्या भवितुमर्हति।
कामं खादत मां सर्वा न करिष्यामि वो वचः॥8||

स॥संगताः लोकविद्वष्टं यत् इदं वाक्यं उदाहरथ एतत् वः मे मनसि किल्बिषं प्रतिभाति न ॥ मानुषी राक्षसस्य भार्या भवितुं न अर्हति । सर्वान् मां कामं खादत। वो वचः न करिष्यामि॥

'The words addressed by all of you joined together are not acceptable to the world . Your words do not appeal to me. A human being cannot be the wife of a Rakshasa. All of you can eat me freely. I Will not do what you told me'.

दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः।
तं नित्यमनुरक्ताऽस्मि यथा सूर्यं सुवर्चला॥9||
यथा शची महाभागा शक्रं समुपतिष्टति।
अरुंधती वशिष्ठं च रोहिणी शशिनं यथा॥10||
लोपमुद्रा यथाऽगस्त्यं सुकन्या च्यवनं यथा।
सावित्री सत्यवंतं च कपिलं श्रीमती यथा॥11||

स॥ दीनः वा राज्यहीनः वा यो मे भर्तः सः मे गुरुः। तं नित्यं अनुरक्तास्मि यथा सुवर्चला सूर्यं अनुरक्तसि॥यथा महाभागा शची शक्रं समुपतिष्ठति ( तथैव)। यथा अरुंधती वशिष्ठं रोहिणी शशिनं च॥यथा लोपमुद्रा अगस्त्यं यथा सुकन्या च्यवनं यथा सावित्री सत्यवंतं च कपिलं श्रीमती यथा ॥

My husband, even if he is a dejected one or one who lost kingdom, he is my master. I will follow him always like Suvarchala is devoted to Sun. Like the noble Sachi following Indra, Arundhati following Vasishta and Rohini following the Moon. Like Lopamudra following Agastya, Sukanya following Chyavanam , Savitri following Satyvantam and Srimati following Kapila ( I will follow Rama).

सौदासं मदयंतीव केशिनी सगरं यथा।
नैषधं दमयंतीव भैमी पतिमनुव्रता॥12||
तथाऽहं इक्ष्वाकु रामं पतिमनुव्रता।

स॥ यथा मदयंती सौदासं इव केसिनी सगरं यथा भैमी दमयंती नैषधं इव अनुव्रता तथा अहं इक्ष्वाकुनाथं पतिं रामं अनुव्रता ॥

'Like Madayanti followed Saudasa, Kesini followed Sagara , Bhima's daughter Damayanti followed Nala, the king of Naishadha, I will follow the Ikshwaku leader and my husband Rama'.

सीताया वचनं श्रुत्वा राक्ष्यसः क्रोधमूर्छिताः॥13||
भर्त्सयन्ति स्म परुषैः वाक्यै रावणचोदिता।
अवलीनः स निर्वाक्यो हनुमान् शिंशुपाद्रुमे॥14||
सीतां संतर्जयन्तीनाम् राक्षसीनां स शुश्रुवे॥
तामभिक्रम्य संक्रुद्धा वेपमानां समन्ततः॥15||
भृशं संलिलिहुर्दीप्तान् प्रलम्बान् दशनच्चदान्।

स॥ रावण च उदिता राक्षस्यः सीतायाः वचनं श्रुत्वा क्रोधमूर्छिताः परुषैः वाक्यः भर्त्सयन्ति स्म॥ कपिः सः हनुमान् निर्वाक्यः शिंशुपाद्रुमे अवलीनः सीतां संतर्जयन्तीनां राक्षसीनाम् सः शुश्रुवे ॥ वेपमानां तां समन्ततः अभिक्रम्य संकृद्धाः दीप्तान् प्रलम्बान् दशनच्छदान् भृशं संलिलिहुः॥

Hearing those words of Sita, the Rakshasa women , ordered by by Ravana ( to persuade her) , overtaken by anger threaten her again with harsh statements. Hanuman the Vanara speechless hidden in the branches of Simsupa tree , heard the threats employed by the Rakshasa women against Sita. Surrounding her who is trembling in fear , the angry and glowing Rakshasa women were licking their lips again and again.

ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्॥16||
नेयमर्हसि भर्तारं रावणं राक्षसाधिपम्।
सा भर्त्स्यमाना भीमाभि राक्षसीभिर्वरानना॥17||
सा भाष्पमुपार्जन्ती शिंशुपां तामुपागमत्।
ततस्तासां शिंशुपां सीता राक्षसीभिः समावृता॥18||
अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता।
तां कृशां दीनवदनां मलिनाम्बरधारिणीम्॥19||
भर्त्सयां चक्रिरे सीतां राक्षस्य स्तां समन्ततः।

स॥ परमकृद्धाः आशु परश्वधान् प्रगृह्य ऊचुश्च। इयं राक्षसाधिपं रावणं भर्तारं न अर्हसि॥ भीमाभिः राक्षसीभिः भर्त्स्यमाना सा वरानना सभाष्पं अपसर्पन्ती तां शिंशुपां उपागमत्॥ ततः विशालाक्षी सीता तां शिंशुपां अभिगम्य राक्षसीभिः समावृता शोकपरिप्लुता तस्थौ ॥ ताः राक्षस्यः कृशां दीनवदनां मलिन अंबर धारिणीं तां सीतां समंततः भर्त्सयां चक्रिरे॥

The Rakshasis enraged with anger took their axes and spoke. "She is unfit to have the king of Rakshasas as her husband'. Being threatened by the fearsome Rakshasis ,Sita the best amomg women moved towarsd the Simsupa tree with eyes filled with tears. Then the wide eyed Sita having reached the Simsupa tree , still surrounded by the Rakshasa women stayed there, very much drowned in sea of sorrow. The Rakshasis surrounded Sita and started abusing her. Sita was looking dejected, famished ,and wearing soiled clothes .

ततस्तां विनता नाम राक्षसी भीमदर्शना॥20||
अब्रवीत्कुपिताकारा कराळा निर्णतोदरी।
सीते पर्याप्त मेतावत् भर्तुस्नेहो निदर्शितः॥21||
सर्वत्रातिकृतं भद्रे व्यसना योपकल्पते।

स॥ततः भीमदर्शना कुपिताकारा कराना निर्णतोदरी विनतानाम राक्षसी तां अब्रवीत् ॥ सीते भर्तुः स्नेहः निदर्शितः । एतावत् पर्याप्तं भद्रे ।सर्वत्र अतिकृतं व्यसनाय उपकल्पते॥

Then one fearsome looking dark one, a Rakshasi with loathsome apperance by name Vinata addressed Sita. Oh Sita ! You have shown your love for your husband. To that extent it is good. Every where excess leads to adversity.

परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः॥22||
ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि।
रावणं भज भर्तारं भर्तारं सर्व रक्षसाम्॥23||
विक्रान्तं रूपवन्तं च सुरेश मिव वासवम्।
दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम्॥24||

स॥ मैथिली परितुष्टा अस्मि । ते मानुषः विथिः कृतः । ते भद्रं। मम ब्रुवंत्याः वचः अपि कुरु॥ सर्वराक्षसां भर्तारं विक्रांतं रूपवंतं सुरेशं वासवं इव दक्षिणं त्यागशीलं च सर्वस्य प्रियदर्शनम् रावणं भर्तारं भज॥

'Maithili I am happy. You have done your duty as a human being. Good for you. You follow my words also. Ravana is the Lord of all Rakshasas, courageous, handsome, Lord of gods too like Indra, generous one , sacrificing one, pleasing in appearance. You accept him as your husband.'

मानुषं कृपणं रामं त्यक्त्वा रावण माश्रय।
दिव्याङ्गरागा वैदेही दिव्याभरणभूषिता॥25||
अद्य प्रभृति सर्वेषां लोकानां ईश्वरी भव।
अग्ने स्स्वाहा यथा देवी शचीऽवेंद्रस्य शोभने॥26||
किं ते रामेण वैदेही कृपणेन गतायुषा।
एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि॥27||
अस्मिन् मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्।

स॥ मानुषं कृपणं रामं त्यक्त्वा रावणं आश्रय। वैदेही दिव्याभरणभूषिता दिव्यांगरागा अद्य प्रभृति सर्वेषां लोकानां ईश्वरी भव यथा अग्नेः देवी स्वाहा इंद्रस्य शची इव ॥ ते कृपणेन गतायुषः रामेण किं। एतत् उक्तं मे वाक्यं यदि त्वं न करिष्यसि त्वां अस्मिन् मुहूर्ते वयं सर्वाः भक्षयिष्यामहे ॥

'Leaving Rama the pitiable human being seek refuge in Ravana. Oh Vaidehi adorned with celestial jewels, with celestial unguents applied to your limbs, become the queen of all people from today. You will be like the Svaha of Agni and Sachi of Indra. Why do you want the pitiable Rama , whose lifespan is ending? If you donot follow the words I have spoken, then this very moment we will eat you up'.

अन्यातु विकटा नाम लम्बमानपयोधरा॥28||
अब्रवीत् कुपिता सीतां मुष्टि मुद्यम्य गर्जती।
बहून् अप्रियरूपाणि वचनानि सुदुर्मते॥29||
अनुक्रोशान् मृदुत्वा च्च सोढानि तव मैथिलि।

स॥ लंबमान पयोधरा अन्या विकटा नाम तु मुष्टिं उद्यम्य गर्जती सीतां अब्रवीत् ॥ सुदुर्मते मैथिलि अप्रियरूपाणि बहूनि तव वचनानि अनुक्रोशात् मृदुत्वात् सोढानि ॥

One other Rakshasi named Vikata who has long drooping breasts, spoke to Sita with raised clinched fists. 'Oh Wicked Maithili ! Many unpleasant words of yours were put up with out of kindness and mildness'.

न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम्॥30||
अनीतासि समुद्रस्य पारं अन्यैर्दुरासदम्।
रावणान्तः पुरं घोरं प्रविष्टा चापि मैथिलि॥31||
रावणस्य गृहे रुद्धा मस्माभिस्तु सुरक्षिताम्।
नत्वां शक्तः परित्रातु मपि साक्षात् पुरन्दरः॥32||
कुरुष्व हित वादिन्या वचनं मम मैथिलि।
अलं अश्रुप्रपातेन त्यज शोकमनर्थकम्॥33||

स॥ मैथिलि कालपुरस्कृतां हितं अन्यैः वाक्यं न कुरुषे। दुरासदम् समुद्रस्य पारम् आनीता असि।घोरं रावणांतः पुरं प्रविष्टा असि॥ रावणस्य गृहे रुद्धां अस्माभिः सुरक्षितां त्वां परित्रातुं साक्षात् पुरंदरः अपि न शक्तः ॥ मैथिली हितवादिन्या मम वचनं कुरुष्व॥ अलं अश्रु प्रपातेन । अनर्थकम् शोकं त्यज॥

' Maithili ! You do not accept this timely words of good advice from others. You have been brought here crossing the impossible ocean. You are in the inaccessible inner palaces of Ravana. You are in Ravana's palace protected by us. It is not possible even for Indra to rescue you from here. Maithili ! You follow the words of a well wisher like me. Enough of shedding tears. Give up useless sorrow.

भज प्रीतिं च हर्षं च त्यजैतां नित्य दैन्यताम्।
सीते राक्षसराजेन सह क्रीडा यथासुखम्॥34||
जानासि यथा भीरु स्त्रीणां यौवनमध्रुवम्।
यावन्न ते व्यतिक्रामेत् तावत् सुखमवाप्नुहि॥35||
उद्यानानि च रम्याणि पर्वतोपवनानि च।
सह राक्षसराजेन चर त्वं मदिरेक्षणे॥36||
स्त्री सहस्राणि ते सप्त वशे स्थास्यंति सुन्दरी।
रावणं भज भर्तारं भर्तारं सर्व रक्षसाम्॥37||

स॥ एतान् नित्य दैन्यतां त्यज । प्रीतिं च हर्षं च भज॥सीते राक्षसराजेन सह यथा सुखं क्रीडा॥ भीरु स्त्रीणां यौवनं यथा अध्रुवं जानासि हि । ते यावत् न अतिक्रमेत् तावत् सुखं अवाप्नु हि॥ मदिरेक्षणे रम्याणि उद्यानानि पर्वत उपवनानि च त्वं राक्षसराजेन सह चर ॥ सुंदरी सप्त सहस्राणी स्त्री ते वशे स्थास्यंति ।सर्वरक्षसां भर्तारं रावणं भज॥

'Leave this pitiable state for ever. Enjoy love and happiness.Oh Sita sport and enjoy with the king of Rakshasas. Oh Timid one ! You know that youth is uncertain for women. Before it is over enjoy all pleasures. Oh Lady of intoxicating eyes! Going around delightful gardens, and the gardens around the mountains with the king of Rakshasas enjoy yourself. Oh Beautiful one seven thousand women will be under your control. Accept the Lord of all Rakshasas'.

उत्पाट्य वाते हृदयं भक्षयिष्यामि मैथिलि।
यदि मे व्याहृतं वाक्यं न यथावत् करिष्यसि॥38||

स॥ मैथिली यदि मे व्याहृतं वाक्यं यथावत् न करिष्यसि ते हृदयं उत्पाट्य वा भक्षयिष्यामि ॥

'Maithili ! If you do not accept the words spoken by me , your heart will be plucked and and eaten by me'.

ततश्चण्डोदरी नाम राक्षसी क्रोथमूर्छिता।
भ्रामयन्ती महच्चूल मिदं वचनमब्रवीत्॥39||
इमां हरिण लोलाक्षीं त्रासोत्कम्पिपयोधराम्।
रावणेन हृतां दृष्ट्वा दौहृदो मे महानभूत्॥40||
यकृत्प्लीह मथोत्पीडं हृदयं च सबन्धनम्।
अन्त्राण्यपि तथा शीर्षं खादेय मिति मे मतिः॥41||

स॥ ततः चंडोदरी नाम राक्षसी क्रोधमूर्छिता महत् शूलं भ्रामयंती इदं वचनं अब्रवीत्॥हरिणलोलाक्षीं त्रासोत्कंपित पयोधरां रावणेन हृतां इमाम् दृष्ट्वा मे महान् दौहृदः अभूत् ॥ यकृत् प्लीहं उत्पीडम् सबंधनम् हृदयं च अन्त्राण्यपि तथा शीर्षं खादेयं इति मे मतिः॥

Then a Rakshasi by name Chandodari over powered with anger , twirling her spear spoke the following words. 'Seeing you with eyes flashing like a doe and with breasts heaving in distress, I have developed a desire in my heart. I thought of eating your spleen and liver , along with the heart and the intestines as well as the head.

ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत् ।
कंठमस्या नृशंसायाः पीडयाम किमास्यते॥42||
निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह ।
नात्र कश्चन संदेहाः खादतेति स वक्ष्यति ॥43||

स॥ ततः प्रघसा नाम राक्षसी (इदं) वाक्यं अब्रवीत्। अस्याः नृशंसायाः कंठं पीड्याम । किं आस्यते॥ ततः राज्ञे निवेद्यतां सा मानुषी मृतः इति ॥ ततः सः खादत इति वक्षति । अत्र कश्चन संदेहः न॥

Then a Rakshasi by name Praghasa said the following. ' We will twist the head of this heartless one. Why are we waiting. Then we will tell the King that the human is dead ! Then he will say eat her. There is no doubt about that.

ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत् ।
विश स्येमां तत स्सर्वाः समान् कुरुत पीलुकान्।44||
विभजाम ततः सर्वा विवादो मे न रोचते।
सेय मानीयतां क्षिप्रं लेह्या मुच्चावचं बहु॥45||

स॥ ततः अजामुखी नाम राक्षसी वाक्यं अब्रवीत्। सर्वाः इमाम् विशस्य ततः समान् पीलुकान् कुरुत॥ ततः सर्वाः विभजाम । मे विवादः न रोचते। क्षिप्रं पेयं उच्चावचम् बहु लेह्यां आनीयताम् ॥

Then Rakshasi by name Ajamukhi said the following. ' Let us all cut her in equal pieces. Then we will divide . I do not like arguments. Go quickly bring drinks and food. Bring all types food that can be licked'.

ततश्शूर्पणखानाम राक्षसी वाक्यमब्रवीत् ।
अजामुख्या यदुक्तं हि तदेव ममरोचते॥46||
सुरा चानीयतां क्षिप्रं सर्व शोकविनाशिनी।
मानुषं मांसं आसाद्य नृत्यामऽथ निकुम्भिलाम्॥47||

स॥ ततः शूर्पणखा नाम राक्षसी वाक्यं अब्रवीत् । अजामुखी यत् उक्तं तदेव मम रोचते॥ क्षिप्रं सर्वशोकविनाशिनी सुरा च आनीयताम् । मानुषा मांसम् आस्वाद्य अथ निकुंभलां नृत्यामः॥

Then a Rakshasi by name Surpanakha said the following. 'I like what ever is said by Ajamukhi only. Quickly get the wine which is destroyer of all sorrows. After relishing the human flesh we will start Nikumbha dance'.

एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा।
राक्षसीभिः सुघोराभि र्धैर्यमुत्सृज्य रोदिति॥48||

स॥ सुघोराभिः राक्षसीभिः एवं संभर्त्स्यमाना सुरसुतोपमा सा सीता धैर्यं उत्सृज्य रोदिति॥

Thus being threatened by the dreadful Rakshasis , Sita who is like the daughter of gods cried giving up courage.

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे चतुर्विंशस्सर्गः॥

Thus ends the twenty fourth Sarga of Sundarakanda in Ramayana the first ever poem composed in Sanskrit by the first poet sage Valmiki.

|| om tat sat||